Sri Venkateswara Suprabhatam

Album: Classical Writer: PB Annan Religion: Hinduism Deity: Lord Venkateswara
कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥ मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृशशैलनाथदयिते दयानिधे ॥४॥ अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥ पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल पूगद्रुमादिसुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥ तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि । भाषासमग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥ भृङ्गावली च मकरन्दरसानुविद्ध झङ्कारगीतनिनदैस्सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥ श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥ श्रीशेषशैल गरुडाचलवेङ्कटाद्रि नारायणाद्रि वृषभाद्रिवृषाद्रि मुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥ सेवापराश्शिवसुरेशकृशानुधर्म रक्षोऽम्बुनाथ पवमान धनादिनाथाः । बद्धाञ्जलि प्रविलसन्निजशीर्ष देशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकार महिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥ सूर्येन्दु भौम बुध वाक्पति काव्यसौरि स्वर्भानु केतु दिविषत्परिषत्प्रधानाः । त्वद्दास दास चरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥ त्वत्पादधूलि भरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः । कल्पागमाकलनयाकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥ श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥ कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुह कुटमल लोलदृष्टे । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥ मीनाकृते कमठ कोल नृसिंह वर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र। शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥ एला लवङ्ग घनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥ ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्तवथ योगिवर्याः । धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसार सागर समुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥ इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥
Added by: Deepak P T on 9/21/2025, 3:37:14 PM Views: 2
See other available versions of this lyrics